रघुवंशम्
महाकविकालिदास
वागर्थाविव सम्पृक्तौ
वागर्थप्रतिपत्तये ।
जगतः पितरौ वन्दे
पार्वतीपरमेश्वरौ ॥ १ ॥
क्व
सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः ।
तितीर्षुर्दुस्तरं
मोहादुडुपेनास्मि सागरम् ॥ २ ॥
मन्दः कवियशःप्रार्थी
गमिष्याम्युपहास्यताम् ।
प्रांशुलभ्ये फले
लोभादुद्बाहुरिव वामनः ॥ ३ ॥
अथवा कृतवाग्द्वारे
वंशेऽस्मिन् पूर्वसूरिभिः ।
मणौ वज्रसमुत्कीर्णे
सूत्रस्येवास्ति मे गतिः ॥ ४
सोऽहमाजन्मशुद्धानाम्
आफलोदयकर्मणाम् ।
आसमुद्रक्षितीशानामानाकरथवर्त्मनाम्
॥ ५ ॥
यथाविधिहुताग्नीनां
यथाकामार्चितार्थिनाम् ।
यथाऽपराधदण्डानां
यथाकालप्रबोधिनाम् ॥ ६ ॥
त्यागाय सम्भृतार्थानां
सत्याय मितभाषिणाम् ।
यशसे विजिगीषूणां प्रजायै
गृहमेधिनाम् ॥ ७ ॥
शैशवेऽभ्यस्तविद्यानां यौवने
विषयैषिणाम् ।
वार्धके मुनिवृत्तीनां
योगेनान्ते तनुत्यजाम् ॥ ८ ॥
रघूणामन्वयं वक्ष्ये
तनुवाग्विभवोऽपि सन् ।
तद्गुणैः कर्णमागत्य चापलाय
प्रचोदितः ॥ ९ ॥
तं सन्तः श्रोतुमर्हन्ति
सदसद्व्यक्तिहेतवः
हेम्नः संलक्ष्यते ह्यग्नौ
विशुद्धिः श्यामिकाऽपि वा ॥१०॥
वैवस्वतो मनुर्नाम माननीयो
मनीषिणाम् ।
आसीन्महीक्षितामाद्यः
प्रणवश्छन्दसामिव ॥ ११
तदन्वये शुद्धिमति प्रसूतः
शुद्धिमत्तरः ।
दिलीप इति राजेन्दुरिन्दुः
क्षीरनिधाविव ॥ १२ ॥
व्यूढोरस्को वृषस्कन्धः
शालप्रांशुर्महाभुजः ।
आत्मकर्मक्षमं देहं क्षात्रो
धर्म इवाश्रितः ॥ १३ ॥
सर्वातिरिक्तसारेण
सर्वतेजोऽभिभाविना ।
स्थितः सर्वोन्नतेनोर्वीं
क्रान्त्वा मेरुरिवात्मना ॥ १४
आकारसदृशप्रज्ञः प्रज्ञया
सदृशागमः ।
आगमैः सदृशारम्भ
आरम्भसदृशोदयः ॥ १५ ॥
भीमकान्तैर्नृपगुणैः स
बभूवोपजीविनाम् ।
अघृष्यश्चाभिगम्यश्च
यादोरत्नैरिवार्णवः ॥ १६ ॥
रेखामात्रमपि क्षुण्णादा
मनोवर्त्मनः परम् ।
न व्यतीयुः प्रजास्तस्य
नियन्तुर्नेमिवृत्तयः ॥ १७
प्रजानामेव भूत्यर्थं स
ताभ्यो बलिमग्रहीत् ।
सहस्रगुणमुत्स्रष्टुम्
आदत्ते हि रसं रविः ॥ १८ ॥
सेना परिच्छदस्तस्य
द्वयमेवार्थसाधनम् ।
शास्त्रेष्वकुण्ठिता बुद्धिर्मौर्वी
धनुषि चातता ॥ १९
तस्य संवृतमन्त्रस्य
गूढाकारेङ्गितस्य च ।
फलानुमेया प्रारम्भाः
संस्काराः प्राक्तना इव ॥२०॥
जुगोपात्मानमत्रस्तो भेजे
धर्ममनातुरः ।
अगृध्नु्राददे सोऽर्थमसक्तः
सुखमन्वभूत् ॥ २१ ॥
ज्ञाने मौनं क्षमा शक्तौ
त्यागे श्लाघाविपर्ययः ।
गुणा गुणानुबन्धित्वात्तस्य
सप्रसवा इव ॥ २२ ॥
अनाकृष्टस्य
विषयैर्विद्यानां पारदृश्वनः ।
तस्य धर्मरतेरासीद् वृद्धत्वं
जरसा विना ॥ २३ ॥
प्रजानां
विनयाधानाद्रक्षणाद्भरणादपि ।
स पिता पितरस्तासां केवलं
जन्महेतवः ॥ २४ ॥
स्थित्यै दण्डयतो
दण्ड्यान्परिणेतुः प्रसूतये ।
अप्यर्थकामौ तस्यास्तां धर्म
एव मनीषिणः ॥ २५ ॥
No comments